दर्शनं देवदेवस्य, दर्शनं पापनाशनम्।

दर्शनं स्वर्गसोपानं, दर्शनं मोक्षसाधनम्॥(1)

 

दर्शनेन जिनेन्द्राणां, साधूनां वन्दनेन च।

न चिरं तिष्ठते पापं, छिद्रहस्ते यथोदकम्॥(2)

 

वीतराग - मुखं दृष्ट्वा, पद्मरागसमप्रभम्।

नैकजन्मकृतं पापं, दर्शनेन विनश्यति॥(3)

 

दर्शनं जिनसूर्यस्य, संसार-ध्वान्तनाशनम्।

बोधनं चित्तपद्मस्य, समस्तार्थ-प्रकाशनम्॥(4)

 

दर्शनं जिनचन्द्रस्य, सद्धर्मामृत-वर्षणम्।

जन्म-दाहविनाशाय, वर्धनं सुखवारिधे:॥(5)

 

जीवादितत्त्व प्रतिपादकाय, सम्यक्त्व मुख्याष्टगुणाश्रयाय।

प्रशान्तरूपाय दिगम्बराय, देवाधिदेवाय नमो जिनाय॥(6)

 

चिदानन्दैक - रूपाय, जिनाय परमात्मने।

परमात्मप्रकाशाय, नित्यं सिद्धात्मने नम:॥(7)

 

अन्यथा शरणं नास्ति, त्वमेव शरणं मम।

तस्मात्कारुण्यभावेन, रक्ष रक्ष जिनेश्वर:॥(8)

 

न हि त्राता न हि त्राता, न हि त्राता जगत्त्रये।

वीतरागात्परो देवो, न भूतो न भविष्यति॥(9)

 

जिने भक्तिर्जिने भक्तिर्जिने भक्ति-र्दिनेदिने।

सदा मेऽस्तु सदा मेऽस्तु,सदा मेऽस्तु भवे भवे॥(10)

 

जिनधर्मविनिर्मुक्तो, मा भवेच्चक्रवर्त्यपि ।

स्याच्चेटोऽपि दरिद्रोऽपि, जिनधर्मानुवासित:॥(11)

 

जन्मजन्मकृतं पापं, जन्मकोटिमुपार्जितम्।

जन्ममृत्युजरा-रोगं, हन्यते जिनदर्शनात्॥(12)

 

अद्याभवत् सफलता नयन-द्वयस्य,

देव ! त्वदीय चरणाम्बुज वीक्षणेन।

अद्य त्रिलोक-तिलक ! प्रतिभासते मे,

संसार-वारिधिरयं चुलुक-प्रमाणम् ॥(13)